आस्माकीनम्
तत्रभवद्भिः संस्कृतम् अवगन्तुम् यत्र यत्र कष्टम् अनुभूयते तत्र सर्वत्र सरलसंस्कृतशिक्षणं सङ्कल्पनात्मकचित्रणद्वारा (Graphic Design) भवतां साहाय्यमाचरति इत्यत्र नास्ति संशयलेशोऽपि । तद्दिशि रसमञ्जरी (शायरी), दैनिकवाक्यानि, चित्रपदकोशः, अनूदितगीतानि, ध्वनिः, विचाराः, ई-पत्रिका इत्यादिभिः उच्चारणेन (pronunciation) सह मनोरञ्जकतया भवद्भ्यः ज्ञानग्रासप्रदानस्य एकः विशिष्टः नूतनश्च प्रयासः एषः । एतन्माध्यमेन यः कोऽपि पूर्वं संस्कृतम् अजानन् अपि शीघ्रगत्या संस्कृतम् अध्येतुं शक्नोति ।
जनं जनं प्रति संस्कृतं प्रापयितुं सरलसंस्कृतशिक्षणम् इत्येव नाम्ना वयं कटिबद्धाः स्मः । संस्कृतभाषायाः व्यावहारिकीकरणम् (communicational language) एव महदुद्देश्यमस्ति अस्माकम् । भवत्सु तादृशाः अपि स्युः यत् संस्कृतसेवां कर्तुम् इच्छन्ति किन्तु वेदिका न लब्धा स्यात् । तर्हि सरलसंकृतशिक्षणं भवद्भ्यः संकृतसेवार्थं वेदिकां दास्यति । यदि तादृशोत्साहः भवत्सु विद्यते अथवा जालपत्रस्य विषये कोऽपि विचारः विद्यते तर्हि भवन्तः जालपत्रमाध्यमेन, ई-मेल् (Email) माध्यमेन वा अस्मान् सम्पर्कयितुं शक्नुवन्ति । पुनः इतस्ततः द्रष्टव्यं किमस्ति ? आरभामहे संस्कृतसेवाम्, आनयामः अस्मत्मित्राणि अपि ।
No comments:
Post a Comment